|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.117. अध्यायः 117
Mahabharata - Vana Parva - Chapter Topics
रामेण रेणुकायां मानसिकव्यभिचारदर्शिनः पितुर्जमदग्नेर्नियोगात्कुठारेण तस्याः कण्ठच्छेदनम् ॥ 1 ॥ जमदग्निना पुत्रप्रार्थनया रेणुकायाः पुनरुज्जीवनम् ॥ 2 ॥ रामासंनिधाने जमदग्न्याश्रममुपागतेन कार्तवीर्यार्जुनेन तदीयहोमधेनुवत्साहरणपूर्वकं तदाश्रमपीडनम् ॥ 3 ॥ तत आगतेन रामेण कार्तवीर्ये युधि निहते तदीयै रामासंनिधाने जमदग्नेर्वधः ॥ 4 ॥
Mahabharata - Vana Parva - Chapter Text
अकृतव्रण उवाच। 3-117-0x(2089)(20528)
स वेदाध्ययने युक्तो जमदग्निर्महातपाः।
तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥ 3-117-1(20529)
स प्रसेनजितं राजन्नधिगम्य नराधिपम्।
रेणुकां वरयामास स च तस्मै ददौ नृपः ॥ 3-117-2(20530)
रेणुकां त्वथ संप्राप्य भार्यां भार्गवनन्दनः।
आश्रमस्थस्तया सार्धं तपस्तेपेऽनुकूलया ॥ 3-117-3(20531)
तस्याः कुमाराश्चत्वारो जज्ञिरे रामपञ्चमाः।
सर्वेषामजघन्यस्तु राम आसीञ्जघन्यजः ॥ 3-117-4(20532)
फलाहारेषु सर्वेषु गतेष्वथ सुतेषु वै।
रेणुका स्नातुमगमत्कदाचिन्नियतव्रता ॥ 3-117-5(20533)
सा तु चित्ररथं नाम मार्तिकावतकं नृपम्।
ददर्श रेणुका राजन्नागच्छन्ती यदृच्छया ॥ 3-117-6(20534)
क्रीडन्तं सलिले दृष्ट्वा सभार्यं पद्ममालिनम्।
ऋद्धिमन्तं ततस्तस्य स्पृहयामास रेणुका ॥ 3-117-7(20535)
व्यभिचाराच्च तस्मात्सा क्लिन्नाम्भसि विचेतना।
`अन्तरिक्षान्निपतिता नर्मदायां महाह्रदे ॥ 3-117-8(20536)
उतीर्य चापि सा यत्नाज्जगाम भरतर्षभ'।
प्रविवेशाश्रमं त्रस्ता तां वै भर्तान्वबुध्यत ॥ 3-117-9(20537)
स तां दृष्ट्वाच्युतांधैर्याद्ब्राह्म्या लक्ष्म्या विवर्जिताम्।
श्रिक्शब्देन महातेजा गर्हयामास वीर्यवान् ॥ 3-117-10(20538)
ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः।
आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥ 3-117-11(20539)
तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत्।
न च ते जातसंमोहाः किंचिदूचुर्विचेतसः ॥ 3-117-12(20540)
ततः शशाप तान्क्रोधात्ते शप्ताश्चैतनां जहुः।
मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥ 3-117-13(20541)
ततो रामोऽभ्ययात्पश्चादाश्रमं परवीरहा।
तमुवाच महामन्युर्जमदग्निर्महातपाः ॥ 3-117-14(20542)
जहीमां मातरं पापां मा च पुत्र व्यथां कृथाः।
तत आदाय परशुं रामो मातु शिरोऽहरत् ॥ 3-117-15(20543)
ततस्तस्य महाराज जमदग्नेर्महात्मनः।
कोपोऽभ्यगच्छत्सहसा प्रसन्नश्चाब्रवीदिदम् ॥ 3-117-16(20544)
ममेदं वचनात्तात कृतं ते कर्म दुष्करम्।
वृणीष्व कामान्धर्मज्ञ यावतो वाञ्छसे हृदा ॥ 3-117-17(20545)
स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै।
पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥ 3-117-18(20546)
अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत।
ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥ 3-117-19(20547)
कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो।
अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥ 3-117-20(20548)
तमाश्रमपदं प्राप्तमृषिरर्ध्यात्समार्चयत्।
स युद्धमदसंमत्तो नाभ्यनन्दत्तथाऽर्चनम् ॥ 3-117-21(20549)
प्रमथ्य चाश्रमात्तस्माद्धोमधेनोस्ततोबलात्।
जहार वत्सं क्रोशन्त्या बभञ्ज च महाद्रुमान् ॥ 3-117-22(20550)
आगताय च रामाय तदाचष्ट पिता स्वयम्।
गां च रोरुदतीं दृष्ट्वा कोपो रामं समाविशत्।
स मन्युवशमापन्नः कार्तवीर्यमुपाद्रवत् ॥ 3-117-23(20551)
तस्याथ युधि विक्रम्य भार्गवः परवीरहा।
चिच्छेद निशितैर्भल्लैर्बाहून्परिघसंनिभान् ॥ 3-117-24(20552)
सहस्रसंमितान्राजन्प्रगृह्य रुचिरं धनुः।
अभिभूतः स रामेण संयुक्तः कालधर्मणा ॥ 3-117-25(20553)
अर्जुनस्याथ दायादा रामेण कृतमन्यवः।
आश्रमस्थं विना रामं जमदग्निमुपाद्रवन् ॥ 3-117-26(20554)
ते तं जघ्नुर्महावीर्यमयुध्यन्तं तपस्विनम्।
असकृद्रामरामेति विक्रोशन्तमनाथवत् ॥ 3-117-27(20555)
कार्तवीर्यस्य पुत्रास्तु जमदग्निं युधिष्ठिर।
घातयित्वा शरैर्जग्मुर्यथागतमरिंदमाः ॥ 3-117-28(20556)
अपक्रान्तेषु वै तेषु जमदग्नौ तथा गते।
समित्पाणिरुपागच्छदाश्रमं भृगुनन्दनः ॥ 3-117-29(20557)
स दृष्ट्वा पितरं वीरस्तदा मृत्युवशं गतम्।
अनर्हं तं तथाभूतं विललाप सुदुःखितः ॥ 3-117-30(20558)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तदशाधिकशततमोऽध्यायः ॥ 117 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-117-7 ततस्तस्य स्पृहयामास तमैच्छत्। सभार्यं हेममालिनमिति क. ध. पाठः ॥ 3-117-25 कालधर्मणा मृत्युना ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|